|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.200. अध्यायः 200
(अथ स्वयंवरपर्व ॥ 12 ॥)
Mahabharata - Adi Parva - Chapter Topics
मध्येमार्गं आगतस्य व्यासस्य आज्ञया पाण्डवानां द्रुपदपुरप्रवेशः॥ 1 ॥ तेषां कुम्भकारगृहे वासः, भैक्षवृत्तिश्च॥ 2 ॥ द्रौपद्याः स्वयंवरनिर्माणकारणकथनं॥ 3 ॥ द्रुपदेन कृतां स्वयंवरघोषणां श्रुतवतां क्षत्रियादीनां आगमनं॥ 4 ॥ सर्वेषां उचिते स्थाने उपवेशनं पाण्डवानां ब्राह्मणमध्ये उपवेशनं॥ 5 ॥ मङ्गलस्नातायाः स्वलङ्कृताया द्रौपद्या रङ्गमध्ये आगमनं॥ 6 ॥ धृष्टद्युम्नेन लक्ष्यवेधपणकथनम्॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-200-0x(1129)(8848)
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः।
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्॥ 1-200-1(8849)
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा॥ 1-200-2(8850)
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्॥ 1-200-3(8851)
पश्यन्तो रमणीयानि वनानि च सरांसि च।
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः॥ 1-200-4(8852)
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः॥ 1-200-5(8853)
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा॥ 1-200-6(8854)
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्॥ 1-200-7(8855)
`यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्।
ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां॥ 1-200-8(8856)
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्।
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्॥ 1-200-9(8857)
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।'
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने॥ 1-200-10(8858)
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः।
`जामातृबलसंयोगं मेने हि बलवत्तरम्॥' 1-200-11(8859)
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय।
दृढं धनुरथानम्यं कारयामास भारत॥ 1-200-12(8860)
`वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः।
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्॥ 1-200-13(8861)
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला।
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्॥ 1-200-14(8862)
शङ्करेण वरं दत्तं प्रीतेन च महात्मना।
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः॥ 1-200-15(8863)
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम्।
इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम्॥' 1-200-16(8864)
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्।
तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम्॥ 1-200-17(8865)
द्रुपद उवाच। 1-200-18x(1130)
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति॥ 1-200-18(8866)
वैशम्पायन उवाच। 1-200-19x(1131)
इति स द्रुपदो राजा स्वयंवरमघोषयत्।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत॥ 1-200-19(8867)
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप॥ 1-200-20(8868)
`यादवा वासुदेवेन सार्धमन्धकवृष्णयः।'
ततोऽर्चिता राजगुणा द्रुपदेन महात्मना॥ 1-200-21(8869)
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्।
`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्॥ 1-200-22(8870)
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन्।
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः॥ 1-200-23(8871)
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः।
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः॥ 1-200-24(8872)
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः॥ 1-200-25(8873)
प्राकारपरिखोपेतो द्वारतोरणमण्डितः।
वितानेन विचित्रेण सर्वतः समलङ्कृतः॥ 1-200-26(8874)
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः॥ 1-200-27(8875)
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै॥ 1-200-28(8876)
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः।
सुखारोहणसोपानैर्महासनपरिच्छदैः॥ 1-200-29(8877)
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः॥ 1-200-30(8878)
असंबाधशतद्वारैः शयनासनशोभितैः।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव॥ 1-200-31(8879)
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः।
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः॥ 1-200-32(8880)
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्॥ 1-200-33(8881)
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः॥ 1-200-34(8882)
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्॥ 1-200-35(8883)
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्॥ 1-200-36(8884)
ततः समाजो ववृधे स राजन्दिवसान्बहून्।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः॥ 1-200-37(8885)
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे।
`मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः।
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः॥ 1-200-38(8886)
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा।
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः॥ 1-200-39(8887)
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्।
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्॥ 1-200-40(8888)
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः।
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्॥ 1-200-41(8889)
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्।
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः॥ 1-200-42(8890)
दूर्वामधूकरचितं माल्यं तस्या ददुः करे।
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये॥ 1-200-43(8891)
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा।
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ॥ 1-200-44(8892)
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्।
कालाञ्जनं नयनयोराचारार्थं समादधुः॥ 1-200-45(8893)
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्।
माता च तस्याः पृषती हरितालमनश्शिलाम्॥ 1-200-46(8894)
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे।
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः॥ 1-200-47(8895)
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति।
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः॥ 1-200-48(8896)
एनामारोपयामासुः करिणीं कुचभूषिताम्।
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्॥ 1-200-49(8897)
विलासिनीजनाश्चापि प्रवरं करिणीशतम्।
माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः॥ 1-200-50(8898)
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः।
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा॥ 1-200-51(8899)
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत।
द्रुपदो रङ्गदेशे तु बलेन महता युतः॥ 1-200-52(8900)
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।'
आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्॥ 1-200-53(8901)
मालां च समुपादाय काञ्चनीं समलङ्कृताम्।
`आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्॥' 1-200-54(8902)
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ।
`तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले।
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा॥' 1-200-55(8903)
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा॥ 1-200-56(8904)
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च।
वारयामास सर्वाणि वादित्राणि समन्ततः॥ 1-200-57(8905)
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः॥ 1-200-58(8906)
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्॥ 1-200-59(8907)
इदं धनुर्लक्ष्यमिमे च बाणाः
शृण्वन्तु मे भूपतयः समेताः।
छिद्रेण यन्त्रस्य मसर्पयध्वं
शरैः शितैर्व्योमचरैर्दशार्धैः॥ 1-200-60(8908)
एतन्महत्कर्म करोति यो वै
कुलेन रूपेण बलेन युक्तः।
तस्याद्य भार्या भगिनी ममेयं
कृष्णा भवित्री न मृषा ब्रवीमि॥ 1-200-61(8909)
तानेवमुक्त्वा द्रुपदस्य पुत्रः
पश्चादिदं तां भगिनीमुवाच।
नाम्ना च गोत्रेण च कर्मणा च
संकीर्तयन्भूमिपतीन्समेतान्॥ ॥ 1-200-62(8910)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्विशततमोऽध्यायः॥ 200 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-200-7 जज्ञिरे ज्ञातवन्तः॥ 1-200-17 वैहायसमन्तरिक्षगतम्॥ 1-200-24 शिंशुमारो जलजन्तुस्तदाकारस्तारासमूहात्मको विष्णुस्तस्य शिरःप्रदेशे ऐशान्यां दिशि। अतएव सा अपराजितादिक् तां दिशं प्राप्य न्यविशन्॥ 1-200-25 तामेव दिशमात्र प्रागिति॥ द्विशततमोऽध्यायः॥ 200 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|